Dehasthadevatācakrastotra

attribution rejected (Pandey/Silburn per Flood) — listed, flagged · Sanskrit held · disputed · 16
Masters
› abhinavaguptasomanandavasuguptakallatautpaladevalakshmanaguptasambhunathaksemarajabhutirajajayarathayogarajabhattanarayanaindurajasivopadhyayalalla
Abhinavagupta
BioWorks map
Works (canonical list)
देहस्थदेवताचक्रस्तोत्रम् देहस्थदेवताचक्रस्तोत्रम् देहो देवालयः प्रोक्तः स्वात्मा देवः सनातनः । त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत् ॥ १॥ असुरसुरवृन्दवन्दितमभिमतवरवितरणे निरतम् । दर्शनशताग्र्यपूज्यं प्राणतनुं गणपतिं वन्दे ॥ २॥ वरवीरयोगिनीगणसिद्धावलिपूजिताङ्घ्रियुगलम् । अपहृतविनयिजनार्तिं वटुकमपानाभिधं वन्दे ॥ ३॥ यद्धीबलेन विश्वं भक्तानां शिवपथं भाति । तमहमवधानरूपं सद्गुरुममलं सदा वन्दे ॥ ४॥ आत्मीयविषयभोगैरिन्द्रियदेव्यः सदा हृदम्भोजे । अभिपूजयन्ति यं तं चिन्मयमानन्दभैरवं वन्दे ॥ ५॥ उदयावभासचर्वणलीलां विश्वस्य या करोत्यनिशम् । आनन्दभैरवीं तां विमर्शरूपामहं वन्दे ॥ ६॥ अर्चयति भैरवं या निश्चयकुसुमैः सुरेशपत्रस्था । प्रणमामि बुद्धिरूपां ब्रह्माणीं तामहं सततम् ॥ ७॥ कुरुते भैरवपूजामनलदलस्थाऽभिमानकुसुमैर्या । नित्यमहङ्कृतिरूपां वन्दे तां शाम्भवीमम्बाम् ॥ ८॥ विदधाति भैरवार्चां दक्षिणदलगा विषेशकुसुमैर्या । (विकल्पकुसुमैर्या) नित्यं मनःस्वरूपां कौमारीं तामहं वन्दे ॥ ९॥ नैरृतदलगा भैरवमर्चयते शब्दकुसुमैर्या । प्रणमामि श्रुतिरूपां नित्यं तां वैष्णवीं शक्तिम् ॥ १०॥ (शब्दरूपाम्) पश्चिमदिग्दलसंस्था हृदयहरैः स्पर्शकुसुमैर्या । तोषयति भैरवं तां त्वग्रूपधरां नमामि वाराहीम् ॥ ११॥ वरतररूपविशेषैर्मारुतदिग्दलनिषण्णदेहा या । पूजयति भैरवं तामिन्द्राणीं दृक्तनुं वन्दे ॥ १२॥ धनपतिकिसलयनिलया या नित्यं विविधषड्रसाहारैः । पूजयति भैरवं तां जिह्वाभिख्यां नमामि चामुण्डाम् ॥ १३॥ ईशदलस्था भैरवमर्चयते परिमलैर्विचित्रैर्या प्रणमामि सर्वदा तां घ्राणाभिख्यां महालक्ष्मीम् ॥ १४॥ षड्दर्शनेषु पूज्यं षड्त्रिंशत्तत्त्वसंवलितम् । आत्माभिख्यं सततं क्षेत्रपतिं सिद्धिदं वन्दे ॥ १५॥ संस्फुरदनुभवसारं सर्वान्तः सततसन्निहितम् । नौमि सदोदितमित्थं निजदेहगदेवताचक्रम् ॥ १६॥ इति श्रीअभिनवगुप्तपादाचार्यकृतं देहस्थदेवताचक्रस्तोत्रं सम्पूर्णम् ॥