Pipeline translation: open → (8/10 passages passed the gate; English shows for those only)
भैरवस्तवः
भैरवस्तवः
(भैरवस्तोत्रम्)
व्याप्तचराचरभावविशेषं चिन्मयमेकमनन्तमनादिम् ।
भैरवनाथमनाथशरण्यं त्वन्मयचित्ततया हृदि वन्दे ॥ १॥
त्वन्मयमेतदशेषमिदानीं भाति मम त्वदनुग्रहशक्त्या ।
त्वं च महेश सदैव ममात्मा स्वात्ममयं मम तेन समस्तम् ॥ २॥
स्वात्मनि विश्वगते त्वयि नाथे तेन न संसृतिभीतिकथास्ति । (संसृतिभीतिकथाऽस्ति)
सत्स्वपि दुर्धरदुःखविमोहत्रासविधायिषु कर्मगणेषु ॥ ३॥
अन्तक मां प्रति मा दृशमेनां क्रोधकरालतमां विनिधेहि ।
शङ्करसेवनचिन्तनधीरो भीषणभैरवशक्तिमयोऽस्मि ॥ ४॥
इत्थमुपोढभवन्मयसंविद्दीधितिदारितभूरितमिस्रः ।
मृत्युयमान्तककर्मपिशाचैर्नाथ नमोऽस्तु न जातु बिभेमि ॥ ५॥
प्रोदितसत्यविबोधमरीचिः प्रेक्षितविश्वपदार्थसतत्त्वः ।
(प्रोदितसत्यविबोधमरीचिप्रेक्षितविश्वपदार्थसतत्त्वः ।)
भावपरामृतनिर्भरपूर्णे त्वय्यहमात्मनि निर्वृतिमेमि ॥ ६॥
मानसगोचरमेति यदैव क्लेशदशा तनुतापविधात्री ।
(क्लेशदशाऽतनुतापविधात्री, क्लेशदशा तनुतामविधाय)
नाथ तदैव मम त्वदभेदस्तोत्रपरामृतवृष्टिरुदेति ॥ ७॥
शङ्कर सत्यमिदं व्रतदानस्नानतपो भवतापविदारि ।
तावकशास्त्रपरामृतचिन्ता स्यन्दति चेतसि निर्वृतिधाराम् ॥ ८॥
नृत्यति गायति हृष्यति गाढं संविदियं मम भैरवनाथ ।
त्वां प्रियमाप्य सुदर्शनमेकं दुर्लभमन्यजनैः समयज्ञम् ॥ ९॥
वसुरसपौषे कृष्णदशम्यामभिनवगुप्तः स्तवमिममकरोत् ।
येन विभुर्भवमरुसन्तापं शमयति (स्व)जनस्य झटिति दयालुः ॥ १०॥
(पौषरसाष्टगकृष्णदशम्यामभिनवगुप्तः स्तवमिमकरोत् ।
येन विभुर्भवमरुसन्तापं नाशयति स्वजनस्य झटिति दयालुः ॥ १०॥)
॥ इति श्रीअभिनवगुप्तपादाचार्यकृतः भैरवस्तवः सम्पूर्णः ॥
(॥ समाप्तं स्तवमिदमभिनवाख्यं पद्यनवकम् ॥)