Bodhapañcadaśikā (Prabodhapañcadaśikā)

early (sequence debated) · Sanskrit held · 15
Masters
› abhinavaguptasomanandavasuguptakallatautpaladevalakshmanaguptasambhunathaksemarajabhutirajajayarathayogarajabhattanarayanaindurajasivopadhyayalalla
Abhinavagupta
BioWorks map
Works (canonical list)
बोधपञ्चदशिका बोधपञ्चदशिका अनस्तमितभारूपस्तेजसां तमसामपि । य एकोऽन्तर्यदन्तश्च तेजांसि च तमांसि च ॥ १॥ स एव सर्वभूतानां स्वभावः परमेश्वरः । भावजातं हि तस्यैव शक्तिर्येश्वरतामयी ॥ २॥ (शक्तिरीश्वरतामयी) शक्तिश्च शक्तिमद्रूपाद् व्यतिरेकं न वाञ्छति । तादात्म्यमनयोर्नित्यं वह्निदाहिकयोरिव ॥ ३॥ स एव भैरवो देवो जगद्भरणलक्षणः । स्वात्मादर्शे समग्रं हि यच्छक्त्या प्रतिबिम्बितम् ॥ ४॥ तस्यैवैषा परा देवी स्वरूपामर्शनोत्सुका । पूर्णत्वं सर्वभावेषु यस्या नाल्पं न चाधिकम् ॥ ५॥ एष देवोऽनया देव्या नित्यं क्रीडारसोत्सुकः । विचित्रान् सृष्टिसंहारान् विधत्ते युगपत्प्रभुः ॥ ६॥ (युगपद्विभुः) अतिदुर्घटकारित्वमस्यानुत्तरमेव यत् । एतदेव स्वतन्त्रत्वमैश्वर्यं बोधरूपता ॥ ७॥ परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् । जडाद्विलक्षणो बोधो यत्तेन परिमीयते ॥ ८॥ (यतो न परिमीयते) एवमस्य स्वतन्त्रस्य निजशक्त्युपभोगिनः । (निजशक्त्युपभेदिनः) स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस्थिताः ॥ ९॥ तेषु वैचित्र्यमत्यन्तमुच्चाधस्तिर्यगेव यत् । (वैचित्र्यमत्यन्तमूर्ध्वाधस्तिर्यगेव) भुवनानि तदीशाश्च सुखदुःखमतिर्भवः ॥ १०॥ (तदंशाश्च सुखदुःखमतिश्च या) यदेतस्यापरिज्ञानं तत्स्वातन्त्र्यं हि वर्णितम् । स एव खलु संसारे जडानां यो विभीषिका तत्प्रसादवशादेव गुर्वागमत एव वा । (तत्प्रसादरसादेव) शास्त्राद्वा परमेशस्य यस्मात्कस्मादुपायतः ॥ १२॥ (यस्मात्कस्मादुपागतम्) यतत् तस्य परिज्ञानं स मोक्षः परमेशता । (यत्तत्त्वस्य परिज्ञानं स मोक्षः परमेशतः ।) तत्पूर्णत्वं प्रबुद्धानां जीवन्मुक्तिश्च सा स्मृता ॥ १३॥ एतौ बन्धविमोक्षौ च परमेशस्वरूपतः । न भिद्येते न भेदो हि तत्त्वतः परमेश्वरे ॥ १४॥ इत्थमिच्छाकलाज्ञानशक्तिशूलाम्बुजाश्रितः । भैरवः सर्वभावानां स्वभावः परिशील्यते ॥ १५॥ मुक्तभारमतीन् शिष्यान्प्रबोधयितुमञ्जसा । (सुकुमारमतीन्) इमेऽभिनवगुप्तेन श्लोकाः पञ्चदशेरिताः ॥ (पञ्चदशोदिताः) ॥ इति श्रीअभिनवगुप्तपादाचार्यकृता बोधपञ्चदशिका समाप्ता ॥